Shri Kali 1000 Names | Ma Kali 1000 Naam | कालीसहस्रनामस्तोत्रम्

 कालीसहस्रनामस्तोत्रम्

 

Shri Kali 1000 Names | Ma Kali 1000 Naam | कालीसहस्रनामस्तोत्रम्

 

श्रीगणेशाय नमः । ॐ श्रीगुरुभ्यो नमः ।

कथितोऽयं महामन्त्रः सर्वमन्त्रोत्तमोत्तमः ।

यमासाद्य मयाप्राप्तं ऐश्वर्यपदमुत्तमम् ॥ १॥

संयुक्तः परया भक्त्या यथोक्तविधिना भवान् ।

कुरुतामर्चनं देव्याः त्रैलोक्यविजिगीषया ॥ २॥

श्रीपरशुराम उवाच

प्रसन्नो यदि मे देवः परमेशः पुरातनः ।

रहस्यं परया देव्या कृपया कथय प्रभो ॥ ३॥

यथार्चनं विनाहोमं विनान्यासं विनाबलिम् ।

विनागन्धं विनापुष्पं विनानित्योदितक्रिया ॥ ४॥

प्राणायामं विनाध्यानं विना भूतविशोधनम् ।

विना जाप्यं विना दानं विना काली प्रसीदति ॥ ५॥

पृष्टं त्वयोक्तं मे प्राज्ञ भृगुवंशविवर्धनः ।

भक्तानामपि भक्तोऽसि त्वमेवं साधयिष्यसि ॥ ६॥

देवीं दानवकोटिघ्नीं लीलया रुधिरप्रियाम् ।

सदा स्तोत्रं प्रियामुग्रां कामकौतुकलालसाम् ॥ ७॥

सर्वदानन्दहृदयां वासव्यासक्तमानसाम् ।

माध्वीकमत्स्यमांसादिरागिणीं रुधिरप्रियाम् ॥ ८॥

श्मशानवासिनीं प्रेतगणनृत्यमहोत्सवाम् ।

योगप्रभां योगिनीशां योगीन्द्रहृदये स्थितां ॥ ९॥

तामुग्रकालिकां राम प्रसादयितुमर्हसि ।

तस्याः स्तोत्रं महापुण्यं स्वयं काल्या प्रकाशितम् ॥ १०॥

तव तत् कथयिष्यामि श्रृत्वा वत्सावधारय ।

गोपनीयं प्रयत्नेन पठनीयं परात्परम् ॥ ११॥

यस्यैककालपठनात् सर्वे विघ्नाः समाकुलाः ।

नश्यन्ति दहने दीप्ते पतङ्गा इव सर्वतः ॥ १२॥

गद्यपद्यमयी वाणी तस्य गङ्गाप्रवाहवत् ।

तस्य दर्शनमात्रेण वादिनो निष्प्रभामताः ॥ १३॥

राजानोऽपि च दासत्वं भजन्ति च परेजनाः ।

तस्य हस्ते सदैवास्ति सर्वसिद्धिर्न संशयः ॥ १४॥

निशीथे मुक्तये शंभुर्नग्नः शक्तिसमन्वितः ।

मनसा चिन्तयेत् कालीं महाकालीति लालिताम् ॥ १५॥

पठेत् सहस्रनामाख्यं स्तोत्रं मोक्षस्य साधनम् ।

प्रसन्ना कालिका तस्य पुत्रत्वेनानुकंपते ॥ १६॥

वेधा ब्रह्मास्मृतेर्ब्रह्म कुसुमैः पूजिता परा ।

प्रसीदति तथा काली यथानेन प्रसीदति ॥ १७॥

ॐ अस्य श्रीकालिकासहस्रनामस्तोत्रमहामन्त्रस्य

महाका


लभैरव ऋषिः

अनुष्टुप् छन्दः श्मशानकालिका देवता

महाकालिकाप्रसादसिद्ध्यर्थे जपे विनियोगः ॥

ध्यानम् ।

शवारुढां महाभीमां घोरदंष्ट्रा हसन्मुखीं ।

चतुर्भुजां खड्गमुण्डवराभयकरां शिवाम॥

मुण्डमालाधरां देवीं लोलज्जिह्वां दिगम्बराम् ।

एवं सञ्चिन्तयेत् कालीं श्मशानालयवासिनीम् ॥

अथ स्तोत्रम् ।

।ॐ क्रीं महाकाल्यै नमः॥

ॐ श्मशानकालिका काली भद्रकाली कपालिनी ।

गुह्यकाली महाकाली कुरुकुल्लाऽविरोधिनी ॥ १८॥

कालिका कालरात्रिश्च महाकालनितंबिनी ।

कालभैरवभार्या च कुलवर्त्मप्रकाशिनी ॥ १९॥

कामदा कामिनी काम्या कमनीयस्वभाविनी ।

कस्तूरी रसनीलाङ्गी कुञ्चरेश्वरगामिनी ॥ २०॥

ककारवर्णसर्वाङ्गी कामिनी कामसुन्दरी ।

कामार्ता कामरूपा च कामधेनुकलावती ॥ २१॥

कान्ता कामस्वरूपा च कामाख्या कुलपालिनी ।

कुलीना कुलवत्यंबा दुर्गा दुर्गतिनाशिनी ॥ २२॥

कौमारी कुलजा कृष्णा कृष्णदेहा कृशोदरी ।

कृशाङ्गी कुलिशाङ्गी च क्रीङ्कारी कमला कला ॥ २३॥

करालस्था कराली च कुलकान्ताऽपराजिता ।

उग्रा चोग्रप्रभा दीप्ता विप्रचित्ता महाबला ॥ २४॥

नीला घना बलाका च मात्रा मुद्रापिताऽसिता ।

ब्राम्ही नारायणी भद्रा सुभद्रा भक्तवत्सला ॥ २५॥

माहेश्वरी च चामुण्डा वाराही नारसिंहिका ।

वज्राङ्गी वज्रकङ्काली नृमुण्डस्रग्विणी शिवा ॥ २६॥

मालिनी नरमुण्डाली गलद्रक्तविभूषणा ।

रक्तचन्दनसिक्ताङ्गी सिन्दूरारुणमस्तका ॥ २७॥

घोररूपा घोरदंष्ट्रा घोराघोरतरा शुभा ।

महादंष्ट्रा महामाया सुदती युगदन्दुरा ॥ २८॥

सुलोचना विरूपाक्षी विशालाक्षी त्रिलोचना ।

शारदेन्दुप्रसन्नास्या स्फुरत्स्मेरांबुजेक्षणा ॥ २९॥

अट्टहासा प्रसन्नास्या स्मेरवक्त्रा सुभाषिणी ।

प्रसन्नपद्मवदना स्मितास्या प्रियभाषिणि ॥ ३०।

कोटराक्षी कुलश्रेष्ठा महती बहुभाषिणी ।

सुमतिः कुमतिश्चण्डा चण्डमुण्डातिवेगिनी ॥ ३१॥

प्रचण्डा चण्डिका चण्डी चार्चिका चण्डवेगिनी ।

सुकेशी मुक्तकेशी च दीर्घकेशी महत्कचा ॥ ३२॥

प्रेतदेहा कर्णपूरा प्रेतपाणी सुमेखला ।

प्रेतासना प्रियप्रेता प्रेतभूमिकृतालया ॥ ३३॥

श्मशानवासिनी पुण्या पुण्यदा कुलपण्डिता ।

पुण्यालया पुण्यदेहा पुण्यश्लोकी च पावनी ॥ ३४॥

पुत्रा पवित्रा परमा पुरा पुण्यविभूषणा ।

पुण्यनाम्नी भीतिहरा वरदा खड्गपाणिनी ॥ ३५॥

नृमुण्डहस्तशस्ता च छिन्नमस्ता सुनासिका ।

दक्षिणा श्यामला श्यामा शान्ता पीनोन्नतस्तनी ॥ ३६॥

दिगंबरा घोररावा सृकान्ता रक्तवाहिनी ।

घोररावा शिवा खड्गा विशङ्का मदनातुरा ॥ ३७॥

मत्ता प्रमत्ता प्रमदा सुधासिन्धुनिवासिनी ।

अतिमत्ता महामत्ता सर्वाकर्षणकारिणी ॥ ३८॥

गीतप्रिया वाद्यरता प्रेतनृत्यपरायणा ।

चतुर्भुजा दशभुजाअष्टादशभुजा तथा ॥ ३९॥

कात्यायनी जगन्माता जगती परमेश्वरी ।

जगत्बन्धुर्जगद्धात्री जगदानन्दकारिणी ॥ ४०॥

जन्ममयी हैमवती महामाया महामहा ।

नागयज्ञोपवीताङ्गी नागिनी नागशायिनी ॥ ४१॥

नागकन्या देवकन्या गन्धर्वी किन्नरेश्वरी ।

मोहरात्री महारात्री दारुणा भासुराम्बरा ॥ ४२॥

विद्याधरी वसुमती यक्षिणी योगिनी जरा ।

राक्षसी डाकिनी वेदमयी वेदविभूषणा ॥ ४३॥

श्रुतिः स्मृतिर्महाविद्या गुह्यविद्या पुरातनी ।

चिन्त्याऽचिन्त्या स्वधा स्वाहा निद्रा तन्द्रा च पार्वती ॥ ४४॥

अपर्णा निश्चला लोला सर्वविद्या तपस्विनी ।

गङ्गा काशी शची सीता सती सत्यपरायणा ॥ ४५॥

नीतिस्सुनीतिस्सुरुचिः तुष्टिः पुष्टिर्धृतिः क्षमा ।

वाणी बुद्धिः महालक्ष्मी लक्ष्मी नीलसरस्वती ॥ ४६॥

स्रोतस्वती सरस्वती मातङ्गी विजया जया ।

नदी सिन्धुः सर्वमयी तारा शून्यनिवासिनी ॥ ४७॥

शुद्धा तरङ्गिणी मेधा लाकिनी बहुरूपिणी ।

स्थूला सूक्ष्मा सूक्ष्मतरा भगवत्यनुरूपिणी ॥ ४८॥

परमाणुस्वरूपा च चिदानन्दस्वरूपिणी ।

सदानन्दमयी सत्या सर्वानन्दस्वरूपिणी ॥ ४९॥

सुनन्दा नन्दिनी स्तुत्या स्तवनीयस्वभाविनी ।

रङ्गिणी टङ्किनी चित्रा विचित्रा चित्ररूपिणी ॥ ५०॥

पद्मा पद्मालया पद्ममुखी पद्मविभूषणा ।

डाकिनी शाकिनी क्षान्ता राकिणी रुधिरप्रिया ॥ ५१॥

भ्रान्तिर्भवानी रुद्राणी मृडानी शत्रुमर्दिनी ।

उपेन्द्राणी महेन्द्राणी ज्योत्स्ना चन्द्रस्वरूपिणी ॥ ५२॥

सूर्यात्मिका रुद्रपत्नी रौद्री स्त्री प्रकृतिः पुमान् ।

शक्तिर्मुक्तिर्मतिर्माता भक्तिर्मुक्तिः पतिव्रता ॥ ५३॥

सर्वेश्वरी सर्वमाता सर्वाणी हरवल्लभा ।

सर्वज्ञा सिद्धिदा सिद्धा भव्या भाव्या भयापहा ॥ ५४॥

कर्त्री हर्त्री पालयित्री शर्वरी तामसी दया ।

तमिस्रा तामसी स्थाणुः स्थिरा धीरा तपस्विनी ॥ ५५॥

चार्वङ्गी चञ्चला लोलजिह्वा चारुचरित्रिणी ।

त्रपा त्रपावती लज्जा विलज्जा हरयौवनी ॥ ५६॥

सत्यवती धर्मनिष्ठा श्रेष्ठा निष्ठूरवादिनी ।

गरिष्ठा दुष्टसंहर्त्री विशिष्टा श्रेयसी घृणा ॥ ५७॥

भीमा भयानका भीमनादिनी भीः प्रभावती ।

वागीश्वरी श्रीर्यमुना यज्ञकर्त्री यजुःप्रिया ॥ ५८॥

ऋक्सामाथर्वनिलया रागिणी शोभनासुरा ।

कलकण्ठी कम्बुकण्ठी वेणु वीणा परायणा ॥ ५९॥

वंशिनी वैष्णवी स्वच्छा धात्री त्रिजगदीश्वरी ।

मधुमती कुण्डलिनी ऋद्धिः शुद्धिः शुचिस्मिता ॥ ६०॥

रम्भोर्वशी रती रामा रोहिणी रेवती मखा ।

शङ्खिनी चक्रिणी कृष्णा गदिनी पद्मिनी तथा ॥ ६१॥

शूलिनी परिघास्त्रा च पाशिनी शार्ङ्गपाणिनी ।

पिनाकधारिणी धूम्रा सुरभी वनमालिनी ॥ ६२॥

रथिनी समरप्रीता वेगिनी रणपण्डिता ।

जडिनी वज्रिणी नीललावण्याम्बुदचन्द्रिका ॥ ६३॥

बलिप्रिया सदापूज्या दैतेन्द्रमथिनी तथा ।

महिषासुरसंहर्त्री कामिनी रक्तदन्तिका ॥ ६४॥

रक्तपा रुधिराक्ताङ्गी रक्तखर्परधारिणी ।

रक्तप्रिया मांसरुचिः वासवासक्तमानसा ॥ ६५॥

गलच्छोणितमुण्डाली कण्ठमालाविभूषणा ।

शवासना चितान्तस्स्ता महेशी वृषवाहिनी ॥ ६६॥

व्याघ्रत्वगम्बरा चीनचैलिनी सिंहवाहिनी ।

वामदेवी महादेवी गौरी सर्वज्ञभामिनी ॥ ६७॥

बालिका तरुणी वृद्धा वृद्धमाता जरातुरा ।

सुभ्रूर्विलासिनी ब्रह्मवादिनी ब्राह्मिणी सती ॥ ६८॥

सुप्तवती चित्रलेखा लोपामुद्रा सुरेश्वरी ।

अमोघाऽरुन्धती तीक्ष्णा भोगवत्यनुरागिणी ॥ ६९॥

मन्दाकिनी मन्दहासा ज्वालामुख्याऽसुरान्तका ।

मानदा मानिनी मान्या माननीया मदातुरा ॥ ७०॥

मदिरा मेदुरोन्मादा मेध्या साध्या प्रसादिनी ।

सुमध्याऽनन्तगुणिनी सर्वलोकोत्तमोत्तमा ॥ ७१॥

जयदा जित्वरी जैत्री जयश्रीर्जयशालिनी ।

सुखदा शुभदा सत्या सभा संक्षोभकारिणी ॥ ७२॥

शिवदूती भूतमती विभूतिर्भूषणानना ।

कौमारी कुलजा कुन्ती कुलस्त्री कुलपालिका ॥ ७३॥

किर्तिर्यशस्विनी भूषा भूष्टा भूतपतिप्रिया ।

सुगुणा निर्गुणाऽधिष्ठा निष्ठा काष्ठा प्रकाशिनी ॥ ७४॥

धनिष्ठा धनदा धान्या वसुधा सुप्रकाशिनी ।

उर्वी गुर्वी गुरुश्रेष्ठा षड्गुणा त्रिगुणात्मिका ॥ ७५॥

राजामाज्ञा महाप्राज्ञा सुगुणा निर्गुणात्मिका ।

महाकुलीना निष्कामा सकामा कामजीवना ॥ ७६॥

कामदेवकला रामाऽभिरामा शिवनर्तकी ।

चिन्तामणीः कल्पलता जाग्रती दीनवत्सला ॥ ७७॥

कार्तिकी कृत्तिका कृत्या अयोध्या विषमा समा ।

सुमन्त्रा मन्त्रिणी घूर्णा ह्लादिनी क्लेशनाशिनी ॥ ७८॥

त्रैलोक्यजननी हृष्टा निर्मांसामलरूपिणी ।

तटाकनिम्नजठरा शुष्कमांसास्थिमालिनी ॥ ७९॥

अवन्ती मधुरा हृद्या त्रैलोक्या पावनक्षमा ।

व्यक्ताऽव्यक्ताऽनेकमूर्ती शारभी भीमनादिनी ॥ ८०॥

क्षेमङ्करी शाङ्करी च सर्वसम्मोहकारिणी ।

ऊर्द्ध्वा तेजस्विनी क्लिन्ना महातेजस्विनी तथा ॥ ८१॥

अद्वैता योगिनी पूज्या सुरभी सर्वमङ्गला ।

सरप्रियङ्करी भोग्या धनिनी पिशिताशना ॥ ८२॥

भयङ्करी पापहरा निष्कलङ्का वशङ्करी ।

आशा तृष्णा चन्द्रकला निद्राणा वायुवेगिनी ॥ ८३॥

सहस्रसूर्यसङ्काशा चन्द्रकोटिसमप्रभा ।

निशुम्भशुम्भसंहर्त्री रक्तबीजविनाशिनी ॥ ८४॥

मधुकैटभसंहर्त्री महिषासुरघातिनी ।

वह्निमण्डलमध्यस्था सर्वसत्वप्रतिष्ठिता ॥ ८५॥

सर्वाचारवती सर्वदेवकन्याऽतिदेवता ।

दक्षकन्या दक्षयज्ञनाशिनी दुर्गतारिणी ॥ ८६॥

इज्या पूज्या विभा भूतिः सत्कीर्तिर्ब्रह्मचारिणी ।

रम्भोरूश्चतुरा राका जयन्ती वरुणा कुहूः ॥ ८७॥

मनस्विनी देवमाता यशस्या ब्रह्मवादिनी ।

सिद्धिदा वृद्धिदा वृद्धिः सर्वाद्या सर्वदायिनी ॥ ८८॥

आधाररूपिणी धेया मूलाधारनिवासिनी ।

आज्ञा प्रज्ञा पूर्णमना चन्द्रमुख्यनुकूलिनी ॥ ८९॥

वावदूका निम्ननाभिः सत्यसन्धा दृढव्रता ।

आन्वीक्षिकी दण्डनीतिस्त्रयी स्त्रिदिवसुन्दरी ॥ ९०॥

ज्वालिनी ज्वलिनी शैलतनया विन्ध्यवासिनी ।

प्रत्यया खेचरी धैर्या तुरीया विमलातुरा ॥ ९१॥

प्रगल्भा वारुणी क्षामा दर्शिनी विस्फुलिङ्गिनी ।

भक्तिः सिद्धिः सदाप्राप्तिः प्रकाम्या महिमाऽणिमा ॥ ९२॥

ईक्षा सिद्धिर्वशित्वा च ईशित्योर्ध्वनिवासिनी ।

लघिमा चैव सावित्री गायत्री भुवनेश्वरी ॥ ९३॥

मनोहरा चिता दिव्या देव्युदारा मनोरमा ।

पिङ्गला कपिला जिह्वा रसज्ञा रसिका रसा ॥ ९४॥

सुषुम्नेडा योगवती गान्धारी नवकान्तका ।

पाञ्चाली रुक्मिणी राधाऽऽराध्या भामा च राधिका ॥ ९५॥

अमृता तुलसीवृन्दा कैटभी कपटेश्वरी ।

उग्रचण्डेश्वरी वीरजननी वीरसुन्दरी ॥ ९६॥

उग्रतारा यशोदाख्या देवकी देवमानिता ।

निरञ्जना चित्रदेवी क्रोधिनी कुलदीपिका ॥ ९७॥

कुलरागीश्वरी ज्वाला मात्रिका द्राविणी द्रवा ।

योगिश्वरी महामारी भ्रामरी बिन्दुरूपिणी ॥ ९८॥

दूती प्राणेश्वरी गुप्ता बहुला डामरी प्रभा ।

कुब्जिका ज्ञानिनी ज्येष्ठा भुशुण्डी प्रकटाकृतिः ॥ ९९॥

द्राविणी गोपिनी माया कामबीजेश्वरी प्रिया ।

शाकम्भरी कोकनदा सुसत्या च तिलोत्तमा ॥ १००॥

अमेया विक्रमा क्रूरा सम्यक् शीला त्रिविक्रमा ।

स्वस्तिर्हव्यवाहा प्रीतीरुक्मा धूम्रार्चिरङ्गदा ॥ १०१॥

तपिनी तापिनी विश्वभोगदा धारिणी धरा ।

त्रिखण्डा रोधिनी वश्या सकला शब्दरूपिणी ॥ १०२।

बीजरुपा महामुद्रा वशिनी योउगरूपिणी ।

अनङ्गकुसुमाऽनङ्गमेखलाऽनङ्गरूपिणी ॥ १०३॥

अनङ्गमदनाऽनङ्गरेखाऽनङ्गकुशेश्वरी ।

अनङ्गमालिनी कामेश्वरी सर्वार्थसाधिका ॥ १०४॥

सर्वतन्त्रमयी सर्वमोदिन्या नन्दरूपिणी ।

वज्रेश्वरी च जयिनी सर्वदुःखक्षयङ्करी ॥ १०५॥

षडङ्गयुवती योगे युक्ता ज्वालांशुमालिनी ।

दुराशया दुराधारा दुर्जया दुर्गरूपिणी ॥ १०६॥

दुरन्ता दुष्कृतिहरा दुर्ध्येया दुरतिक्रमा ।

हंसेश्वरी त्रिलोकस्ता शाकम्भर्यनुरागिणी ॥ १०७॥

त्रिकोणनिलया नित्या परमामृतरञ्जिता ।

महाविद्येश्वरी श्वेता भेरुण्डा कुलसुन्दरी ॥ १०८॥

त्वरिता भक्तिसंयुक्ता भक्तिवश्या सनातनी ।

भक्तानन्दमयी भक्तभाविता भक्तशङ्करी ॥ १०९॥

सर्वसौन्दर्यनिलया सर्वसौभाग्यशालिनी ।

सर्वसंभोगभवना सर्वसौख्यानुरूपिणी ॥ ११०॥

कुमारी पूजनरता कुमारीव्रतचारिणी ।

कुमारीभक्तिसुखिनी कुमारीरूपधारिणी ॥ १११॥

कुमारीपूजकप्रीता कुमारीप्रीतिदप्रिया ।

कुमारीसेवकासङ्गा कुमारीसेवकालया ॥ ११२॥

आनन्दभैरवी बालभैरवी बटुभैरवी ।

श्मशानभैरवी कालभैरवी पुरभैरवी ॥ ११३॥

महाभैरवपत्नी च परमानन्दभैरवी ।

सुरानन्दभैरवी च उन्मादानन्दभैरवी ॥ ११४॥

यज्ञानन्दभैरवी च तथा तरुणभैरवी ।

ज्ञानानन्दभैरवी च अमृतानन्दभैरवी ॥ ११५॥

महाभयङ्करी तीव्रा तीव्रवेगा तरस्विनी ।

त्रिपुरा परमेशानी सुन्दरी पुरसुन्दरी ॥ ११६॥

त्रिपुरेशी पञ्चदशी पञ्चमी पुरवासिनी ।

महासप्तदशी चैव षोडशी त्रिपुरेश्वरी ॥ ११७॥

महाङ्कुशस्वरूपा च महाचक्रेश्वरी तथा ।

नवचक्रेश्वरी चक्रेश्वरी त्रिपुरमालिनी ॥ ११८॥

राजचक्रेश्वरी राज्ञी महात्रिपुरसुन्दरी ।

सिन्दूरपूररुचिरा श्रीमत्त्रिपुरसुन्दरी ॥ ११९॥

सर्वाङ्गसुन्दरी रक्तारक्तवस्त्रोत्तरीयका ।

यवायावकसिन्दूररक्तचन्दनधारिणी ॥ १२०॥

यवायावकसिन्दूररक्तचन्दनरूपधृक् ।

चमरी बालकुटिला निर्मलश्यामकेशिनी ॥ १२१॥

वज्रमौक्तिकरत्नाढ्या किरीटकुण्डलोज्ज्वला ।

रत्नकुण्डलसंयुक्ता स्फुरद्गण्डमनोरमा ॥ १२२॥

कुञ्जरेश्वरकुम्भोत्थमुक्तारञ्जितनासिका ।

मुक्ताविद्रुममाणिक्यहाराद्यस्तनमण्डला ॥ १२३॥

सूर्यकान्तेन्दुकान्ताढ्या स्पर्शाश्मगलभूषणा ।

बीजपूरस्फुरद्बीजदन्तपङ्क्तिरनुत्तमा ॥ १२४॥

कामकोदण्डजाभग्नभ्रूकटाक्षप्रवर्षिणी ।

मातङ्गकुम्भवक्षोजा लसत्कनकदक्षिणा ॥ १२५॥

मनोज्ञशष्कुलीकर्णा हंसी गतिविडम्बिनी ।

पद्मरागाङ्गदद्योतद्दोश्चतुष्कप्रकाशिनी ॥ १२६॥

कर्पूरागरुकस्तूरिकुङ्कुमद्रवलेपिता ।

विचित्ररत्नपृथिवी कल्पशाखितलस्थिता ॥ १२७॥

रत्नदीपस्फुरद्रत्नसिंहासननिवासिनी ।

षट्चक्रभेदनकरी परमानन्दरूपिणी ॥ १२८॥

सहस्रदलपद्मान्ता चन्द्रमण्डलवर्तिनी ।

ब्रह्मरुपा शिवक्रोडा नानासुखविलासिनी ॥ १२९॥

हरविष्णुविरिञ्चेन्द्रगृहनायकसेविता ।

शिवा शैवा च रुद्राणी तथैवशिवनादिनी ॥ १३०॥

महादेवप्रिया देवी तथैवानङ्गमेखला ।

डाकिनी योगिनी चैव तथोपयोगिनी मता ॥ १३१॥

माहेश्वरी वैष्णवी च भ्रामरी शिवरूपिणी ।

अलंबुसा भोगवती क्रोधरूपा सुमेखला ॥ १३२॥

गान्धारी हस्तिजिह्वा च इडा चैव शुभङ्करी ।

पिङ्गला दक्षसूत्री च सुषुम्ना चैव गान्धिनी ॥ १३३॥

भगात्मिका भगाधारा भगेशी भगरूपिणी ।

लिङ्गाख्या चैव कामेशी त्रिपुरा भैरवी तथा ॥ १३४॥

लिङ्गगीतिस्सुगीतिश्च लिङ्गस्था लिङ्गरूपधृक् ।

लिङ्गमाला लिङ्गभवा लिङ्गालिङ्गा च पावकी ॥ १३५॥

भगवती कौशिकी च प्रेमरूपा प्रियंवदा ।

घृध्ररूपीशिवरूपा चक्रेशी चक्ररूपधृक् ॥ १३६॥

आत्मयोनिर्ब्रह्मयोनिर्जगद्योनिरयोनिजा ।

भगरुपा भगस्थात्री भगिनी भगमालिनी ॥ १३७॥

भगात्मिका भगाधारा रुपिणी भगशालिनी ।

लिङ्गाभिधायिनी लिङ्गप्रिया लिङ्गनिवासिनी ॥ १३८॥

लिङ्गस्था लिङ्गिनी लिङ्गरुपिणी लिङ्गसुन्दरी ।

लिङ्गगीतिर्महाप्रीतिर्भगगीतिर्महासुखा ॥ १३९॥

लिङ्गनामसदानन्दा भगनामसदागतिः ।

भगनामसदानन्दा लिङ्गनामसदारतिः ॥ १४०॥

लिङ्गमालकराभूषा भगमालाविभूषणा ।

भगलिङ्गामृतवृता भगलिङ्गामृतात्मिका ॥ १४१॥

भगलिङ्गार्चनप्रिता भगलिङ्गस्वरूपिणी ।

भगलिङ्गस्वरूपा च भगलिङ्गसुखावहा ॥ १४२॥

स्वयंभूकुसुमप्रीता स्वयंभूकुसुमार्चिता ।

स्वयंभूकुसुमप्राणा स्वयंभूकुसुमोत्थिता ॥ १४३॥

स्वयंभूकुसुमस्नाता स्वयंभूपुष्पतर्पिता ।

स्वयंभूपुष्पघटितास्वयंभूपुष्पधारिणी ॥ १४४॥

स्वयंभूपुष्पतिलका स्वयंभूपुष्पचर्चिता ।

स्वयंभूपुष्पनिरता स्वयंभूकुसुमाग्रहा ॥ १४५॥

स्वयंभूपुष्पयज्ञेशा स्वयंभूकुसुमालिका ।

स्वयंभूपुष्पनिचिता स्वयंभूकुसुमार्चिता ॥ १४६॥

स्वयंभूकुसुमा दानलालसोन्मत्तमानसा ।

स्वयंभूकुसुमानन्दलहरी स्निग्धदेहिनी ॥ १४७॥

स्वयंभूकुसुमाधारा स्वयंभूकुसुमाकुला ।

स्वयंभूपुष्पनिलया स्वयंभूपुष्पवासिनी ॥ १४८॥

स्वयंभूकुसुमास्निग्धा स्वयंभूकुसुमात्मिका ।

स्वयंभूपुष्पकरिणी स्वयंभूपुष्[पमालिका ॥ १४९॥

स्वयंभूकुसुमन्यासा स्वयंभूकुसुमप्रभा ।

स्वयंभूकुसुमज्ञाना स्वयंभूपुष्पभोगिनी ॥ १५०॥

स्वयंभूकुसुमोल्लासा स्वयंभूपुष्पवर्षिणी ।

स्वयंभूकुसुमानन्दा स्वयंभूपुष्पपुष्पिणी ॥ १५१॥

स्वयंभूकुसुमोत्साहा स्वयंभूपुष्परूपिणी ।

स्वयंभूकुसुमून्मादा स्वयंभूपुष्पसुन्दरी ॥ १५२॥

स्वयंभूकुसुमाराध्या स्वयंभूकुसुमोत्भवा ।

स्वयंभूकुसुमाव्यग्रा स्वयंभूपुष्पपूर्णिता ॥ १५३॥

स्वयंभूपूजकप्राज्ञा स्वयंभूहोतृमात्रिका ।

स्वयंभूदातृरक्षिता स्वयंभूभक्तभाविका ॥ १५४॥

स्वयंभूकुसुमप्रीता स्वयंभूपूजकप्रिया ।

स्वयंभूवन्दकाधारा स्वयंभूनिन्दकान्तका ॥ १५५॥

स्वयंभूप्रदसर्वस्वा स्वयंभूप्रदपुत्रिणी ।

स्वयंभूप्रदसस्मेरा स्वयंभूतशरीरिणी ॥ १५६॥

सर्वलोकोद्भवप्रीता सर्वलोकोद्भवात्मिका ।

सर्वकालोद्भवोद्भवा सर्वलोकोद्भवोद्भवा ॥ १५७॥

कुन्दपुष्पसमाप्रीतिः कुन्दपुष्पसमारतिः ।

कुन्दगोलोद्भवप्रीता कुन्दगोलोद्भवात्मिका ॥ १५८॥

स्वयंभूर्वा शिवा शक्ता पाविनी लोकपाविनी ।

कीर्तियशस्विनी मेधा विमेधा सुरसुन्दरी ॥ १५९॥

अश्विनी कृत्तिका पुष्या तेजस्वी चन्द्रमण्डला ।

सूक्ष्मा सूक्ष्मप्रदा सूक्ष्मासूक्ष्मभयविनाशिनी ॥ १६०॥

वरदाऽभयदा चैव मुक्तिबन्धविनाशिनी ।

कामुकी कामदा क्षान्ता कामाख्या कुलसुन्दरी ॥ १६१॥

सुखदा दुःखदा मोक्षा मोक्षदर्थप्रकाशिनी ।

दुष्टादुष्टमती चैव सर्वकार्यविनाशिनी ॥ १६२॥

शुक्रधारा शुक्ररूपा शुक्रसिन्धुनिवासिनी ।

शुक्रालया शुक्रभोगा शुक्रपूजा सदारती॥ १६३॥

शुक्रपूजा शुक्रहोम सन्तुष्टा शुक्रवत्सला ।

शुक्रमूर्तिः शुक्रदेहा शुक्रपूजकपुत्रिणी ॥ १६४॥

शुक्रस्था शुक्रिणी शुक्रसंस्पृहा शुक्रसुन्दरी ।

शुक्रस्नाता शुक्रकरी शुक्रसेव्यातिशुक्रिणी ॥ १६५॥

महाशुक्रा शुक्रभवा शुक्रवृष्टिविधायिनी ।

शुक्राभिधेयशुक्रार्हा शुक्रवन्दकवन्दिता ॥ १६६॥

शुक्रानन्दकरी शुक्रसदानन्दविधायिनी ।

शुक्रोत्साहा सदाशुक्रपूर्णा मनोरमा ॥ १६७॥

शुक्रपूजकसर्वस्था शुक्रनिन्दकनाशिनी ।

शुक्रात्मिका शुक्रसम्पदा शुक्राकर्षणकारिणी ॥ १६८॥

रक्ताशया रक्तभोगा रक्तपूजासदारती ।

रक्तपूज्या रक्तहोमा रक्तस्था रक्तवत्सला ॥ १६९॥

रक्तपूर्णा रक्तदेहा रक्तपूजकपुत्रिणी ।

रक्ताख्या रक्तिनी रक्तसंस्पृहा रक्तसुन्दरी ॥ १७०॥

रक्ताभिदेहा रक्तार्हा रक्तवन्दकवन्दिता ।

महारक्ता रक्तभवा रक्तवृष्टिविधायिनी ॥ १७१॥

रक्तस्नाता रक्तप्रीता रक्तसेव्यातिरक्तिनी ।

रक्तानन्दकरी रक्तसदानन्दविधायिनी ॥ १७२॥

रक्तारक्ता रक्तपूर्णा रक्तसेव्यक्षिणीरमा ।

रक्तसेवकसर्वस्वा रक्तनिन्दकनाशिनी ॥ १७३॥

रक्तात्मिका रक्तरूपा रक्ताकर्षणकारिणी ।

रक्तोत्साहा रक्तव्यग्रा रक्तपान परायणा ॥ १७४॥

शोणितानन्दजननी कल्लोलस्निग्धरूपिणी ।

साधकान्तर्गता देवी पार्वती पापनाशिनी ॥ १७५॥

साधूनांहृदिसंस्थात्री साधकानन्दकारिणी ।

साधकानां च जननी साधकप्रियकारिणी ॥ १७६॥

साधकप्रचुरानन्दसम्पत्तिसुखदायिनी ।

साधकासाधकप्राणा साधकासक्तमानसा ॥ १७७॥

साधकोत्तमसर्वस्वा साधका भक्तरक्तपा ।

साधकानन्दसन्तोषा साधकारिविनाशिनी ॥ १७८॥

आत्मविद्या ब्रह्मविद्या परब्रह्मकुटुम्बिनी ।

त्रिकुटस्था पञ्चकूटा सर्वकूटशरीरिणी ॥ १७९॥

सर्ववर्णमयी वर्णजपमालाविधायिनी ।

इति श्रीकालिकानाम्नां सहस्रं शिवभाषितम् ॥ १८०॥

फलश्रुतिः

गुह्यात् गुह्यतरं साक्षात् महापातकनाशनम् ।

पूजाकाले निशिथे च सन्ध्ययोरुभयोरपि ॥ १॥

लभते गाणपत्यं स यः पठेत् साधकोत्तमः ।

यः पठेत् पाठ्येद्वापि श्रृणोति श्रावयेदपि ॥ २॥

सर्वपापविनिर्मुक्तः स याति कालिकां पदम् ।

श्रद्ध्याऽश्रद्ध्या वापि यः कश्चिन्मानवः पठेत् ॥ ३॥

दुर्गादुर्गतरं तीर्त्वा स याति कालिकां पदम् ।

वन्ध्या वा काकवन्ध्या वा मृतपुत्रा चयङ्गना ॥ ४॥

श्रुत्वा स्तोत्रमिदं पुत्रान् लभन्ते चिरजीविनः ।

यं यं कामयते कामं पठन् स्तोत्रमनुत्तमम् ॥ ५॥

देवीवरप्रदातेन तं तं प्राप्नोति नित्यशः ।

स्वयम्भूः कुसुमैः शुक्लैः सुगन्धीकुसुमान्वितैः ॥ ६॥

गुरुविष्णुमहेशानामभेदेनमहेश्वरी ।

समन्तात् भावयेन्मन्त्री महेशो नात्र संशयः ॥ ७॥

स शाक्तः शिवभक्ता च स एव वैष्णवोत्तमः ।

सम्पूज्य स्तौति यः कालीमद्वैतभावमावहन् ॥ ८॥

देव्यानन्देन सानन्दो देवी भक्तैकभक्तिमान् ।

स एव धन्यो यस्यार्थे महेशो व्यग्रमानसः ॥ ९॥

कामयित्वा यथाकामं स्तवमेनमुदीरयेत् ।

सर्वरोगैः परित्यक्तो जायते मदनोपमः ॥ १०॥

चक्रं वास्तवमेनं वा धारयेदङ्गसङ्गतम् ।

विलिख्व विधिवत् साधुः स एव कालिकातनुः ॥ ११॥

देव्यै निवेदितं यद्यत् तस्यां शभक्षयेन्नरः ।

दिव्यदेहधरो भूत्वा देव्याः पार्श्वधरोभवेत् ॥ १२॥

नैवेद्यनिन्दकं दृष्ट्वा नृत्यन्ती योगीनीगणाः ।

रक्तपानोद्यतासर्वा मांसास्थिचर्व्वणोद्यताः ॥ १३॥

तस्मान्निवेद्यं देव्यैयद् दृष्ट्वा श्रृत्वा च मानवः ।

ननिन्देत् मनसा वाचा कुष्ठव्याधिपराङ्मुखः ॥ १४॥

आत्मानं कालिकात्मानं भावयन् स्तौतियः शिवाम् ।

शिवोपमं गुरुं ध्यात्वा स एव श्रीसदाशिवः ॥ १५॥

यस्यालये तिष्ठति नूनमेतत् स्तोत्रम् भवान्या लिखितं विधिज्ञैः ।

गोरोचनालक्तककुङ्कुमाक्तकर्पूरसिन्दूरमधुद्रवेण ॥ १६॥

न तत्र चोरस्य भयं न हास्यो न वैरिभिर्नाऽशनिवह्निभीतिः ।

उत्पातवायोरपि नाऽत्रशङ्का लक्ष्मीः स्वयं तत्र वसेदलोला ॥ १७॥

स्तोत्रं पठेत्तदनन्तपुण्यम् देवीपदाम्भोजपरो मनुष्यः ।

विधानपूजाफलमेव सम्यक् प्राप्नोति सम्पूर्णमनोरथोऽसौ ॥ १८॥

मुक्ताः श्रीचरणारविन्दनिरताः स्वर्गामिनो भोगिनो

ब्रह्मोपेन्द्रशिवात्मकार्चनरतालोकेपि संलेभिरे ।

श्रीमत्शङ्करभक्तिपूर्वकमहादेवीपदध्यायिनो

मुक्तिर्भुक्तिमतिः स्वयं स्तुतिपराभक्तिः करस्थायिनी ॥ १९॥

इति श्रीकालिकाकुलसर्वस्वे हरपरशुरामसंवादे

श्रीकालिकासहस्रनामस्तोत्रम् सम्पूर्णम् ॥

 

No comments:

Post a Comment